सप्तघृतमातृका-पूजन

Om Asttro
1 minute read
0

 सप्तघृतमातृका-पूजन 


श्रीः लक्ष्मीश्च घृति मेधा स्वाहा प्रज्ञा सरस्वती |
मांगल्येषु प्रपूज्यन्ते सप्तैता घृतमातरः ||

ॐ वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्रधारम् |
देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा कामधुक्षः ||

गुडेनैकीकरणम् -
श्री पूर्व सप्त मातृश्च घृतमातृृस्तथैव च |
गुडेन मेलयिष्यामि ताः सर्वार्थ प्रसाधिकाः ||

आवाहन-स्थापन -
  1. ॐ भूर्भुवःस्वः श्रियै नमः, श्रियमावाहयामि, स्थापयामि |
  2. ॐ भूर्भुवःस्वः लक्ष्म्यै नमः, लक्ष्मीमावाहयामि, स्थापयामि |
  3. ॐ भूर्भुवःस्वः धृत्यै नमः, धृतिमावाहयामि, स्थापयामि |
  4. ॐ भूर्भुवःस्वः मेधायै नमः, मेधामावाहयामि, स्थापयामि |
  5. ॐ भूर्भुवःस्वः स्वाहायै नमः, स्वाहामावाहयामि, स्थापयामि |
  6. ॐ भूर्भुवःस्वः प्राज्ञायै नमः, प्रज्ञामावाहयामि, स्थापयामि |
  7. ॐ भूर्भुवःस्वः सरस्वत्यै नमः, सरस्वतीमावाहयामि, स्थापयामि |
 मनो जूतिर्जुषतामाज्ज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्ठं यज्ञ गुं समिमं दधातु 
विश्वे देवा सऽइह मादयन्तामों३ प्रतिष्ठ ||

ॐ भूर्भुवःस्वः श्र्यादिसप्त वसोर्द्धारा देवताभ्यो नमः |
इति षोडशोपचारैः सम्पूज्य प्रर्थयेत् - नमस्करोमि 

ॐ यदंगत्वेन भो देव्यः पूजिता विधिमार्गतः |
कुर्वन्तु कार्यमखिलं निर्विघ्नेन क्रतूद्भवम् ||

|| अनया पूजया श्र्यादिवसोर्धारादेवताः प्रीयतां न मम ||


आयुष्यमन्त्रजपः-
ॐ आयुष्यं वर्चस्य गुं रायस्पोषमौद्भिदम् |
इद गुं हिरण्यं वर्चस्यज्जैत्राया विशतादु माम् ||

ॐ न तद्रक्षा गुं सि न पिशाचास्तरन्ति देवानामोजः प्रथमज गुं ह्येतत् |
यो बिभर्ति दाक्षायण गुं हिरण्य गुं स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः ||

ॐ यदाबध्नन्दाक्षायणा हिरण्य गुं शतानीकाय सुमनस्त मानाः |
तन्मऽआबध्नामि शत शारदाया युष्मान् जर दष्टिर्यथा सम् ||
ॐ आयुष्यं आयुष्यं आयुष्याम् | 

|| इति मन्त्रात् जपत्वा रक्षासूत्रं सप्तघृतमातृकार्पणमस्तु ||   










  

एक टिप्पणी भेजें

0 टिप्पणियाँ

Please Select Embedded Mode To show the Comment System.*

To Top