षोडशमातृका आवाहन-स्थापन
ॐ आयंगौः
पृश्निरक्रमी दस दन्मातरम्पुरः | पितरञ्च प्रयन्त्स्वः ||
0. ॐ गणपतये नमः, गणपतिमावाहयामि, स्थापयामि |
1. ॐ गौर्यै नमः, गौरीमावाहयामि, स्थापयामि |
2. ॐ पद्मायै नमः, पद्मामावाहयामि, स्थापयामि |
3. ॐ शच्यै नमः, शचीमावाहयामि, स्थापयामि |
4. ॐ मेधायै नमः, मेधामावाहयामि, स्थापयामि |
5. ॐ सावित्र्यै नमः, सावित्रीमावाहयामि, स्थापयामि |
6. ॐ विजयायै नमः, विजयामावाहयामि, स्थापयामि |
7. ॐ जयायै नमः, जयामावाहयामि, स्थापयामि |
8. ॐ देवसेनायै नमः, देवसेनामावाहयामि, स्थापयामि |
9. ॐ स्वधायै नमः, स्वधामावाहयामि, स्थापयामि |
10. ॐ स्वाहायै नमः, स्वाहामावाहयामि, स्थापयामि |
11. ॐ मातृभ्यो नमः, मातृः आवाहयामि, स्थापयामि |
12. ॐ लोकमातृभ्यो नमः, लोकमातृः आवाहयामि, स्थापयामि |
13. ॐ धृत्यै नमः, धृतिमावाहयामि, स्थापयामि |
14. ॐ पुष्टयै नमः, पुष्टिमावाहयामि, स्थापयामि |
15. ॐ तुष्टयै नमः, तुष्टिमावाहयामि, स्थापयामि |
16. ॐ आत्मनः कुलदेवतायै नमः, आत्मनः कुलदेवतामावाहयामि, स्थापयामि |
ॐ मनो
जूतिर्जुषतामाज्ज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्ठं यज्ञ गुं समिमं दधातु | विश्वे देवा सऽइह मादयन्तामों३ प्रतिष्ठ ||
ॐ गणेशसहित गौर्यादि षोडशमातृकाभ्यो नमः |
एतानि पाद्यार्घ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि ||
दुग्धस्नान -
ॐ कामधेनु समुद् भूतं सर्वेषां जीवनं परम् |
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ||
पयः स्नानं समर्पयामि |
दधिस्नान -
ॐ पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् |
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ||
दधिस्नानं समर्पयामि |
घृतस्नान -
ॐ नवनीत समुत्पन्नं सर्व संतोष कारकम् |
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ||
घृतस्नानं समर्पयामि |
मधुस्नान -
ॐ पुष्परेणु समुद्भूतं सुस्वादु मधुरं मधु |
तेजःपुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ||
मधुस्नानं समर्पयामि |
शर्करास्नान -
ॐ इक्षुरस समुद्भूतां
शर्करां पुष्टिदां शुभाम् |
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ||
शर्करास्नानं समर्पयामि |
पञ्चामृतस्नान -
ॐ पञ्चामृतं मयानीतं पयो दधि घृतं मधु |
शर्करा च समायुक्तं स्नानार्थं
प्रतिगृह्यताम् ||
पञ्चामृतस्नानं समर्पयामि |
शुद्धोदकस्नान -
ॐ गंगे च यमुने चैव गोदावरी सरस्वती |
नर्मदा सिंधु कावेरी स्नानार्थं प्रतिगृह्यताम् ||
शुद्धोदकस्नानं समर्पयामि |
वस्त्र -
ॐ शीतवातोष्ण संत्राणं लज्जाया रक्षणं परम् |
देहालंकरणं वस्त्र मतः शान्तिं प्रयच्छ मे ||
वस्त्रं समर्पयामि |
उपवस्त्र -
ॐ यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति |
उपवस्त्रं प्रयच्छामि सर्वकर्मोप कारकम् ||
उपवस्त्रं समर्पयामि |
चन्दन -
ॐ श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम् |
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ||
चन्दनानुलेपनं समर्पयामि |
अक्षत -
ॐ अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः |
मया निवेदिता भक्त्या गृहाण परमेश्वर ||
अक्षतान् समर्पयामि |
पुष्प -
ॐ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो |
मया हृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ||
पुष्पं समर्पयामि |
दूर्वा -
ॐ दूर्वाङ्कुरान् सुहरितान् अमृतान् मंगलप्रदान् |
आनीतांस्तव पूजार्थं गृहाण गणनायक ||
दूर्वाङ्कुरान् समर्पयामि |
सिन्दूर -
ॐ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् |
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ||
सिन्दूरं समर्पयामि |
अबीर-गुलाल -
ॐ अबीरं च गुलालं च हरिद्रादि समन्वितम् |
नाना परिमलं द्रव्यं गृहाण परमेश्वरी ||
नानापरिमलद्रव्याणि समर्पयामि |
सुगन्धितद्रव्य
-
ॐ दिव्यगंध समायुक्तं महापरिमलाद्भुतम् |
गंधद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ||
सुगन्धितद्रव्यं समर्पयामि |
धूप -
ॐ वनस्पति रसोद्भूतो गन्धाढ्यो गंध उत्तमः |
आघ्रेय सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ||
धूपमाघ्रापयामि |
दीप -
ॐ साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया |
दीपं गृहाण देवेश त्रैलोक्य तिमिरापहम् ||
दीप दर्शयामि |
नैवेद्य -
ॐ शर्कराखण्ड खाद्यानि दधिक्षीर घृतानि च |
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ||
नैवेद्यं समर्पयामि |
आचमन -
ॐ शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् |
आचम्यतां जलं ह्येतत् प्रसीद परमेश्वरि ||
आचमनीयं जलं समर्पयामि |
करोद्वार्तन -
ॐ चन्दनं मलयोद्भूतं कस्तूर्यादि समन्वितम् |
करोद्वर्तनकं देव गृहाण परमेश्वर ||
करोद्वर्तनकं चन्दनं समर्पयामि |
ताम्बूल-पूगीफल
-
ॐ पूगीफलं महद्दिव्यं नागवल्ली दलैर्युतम् |
एलाचूर्णादि संयुक्तं ताम्बूलं प्रतिगृह्यताम् ||
ताम्बूलं समर्पयामि |
ऋतुफल -
ॐ इदं फलं मया देवी स्थापितं पुरतस्तव |
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ||
अखण्डऋतुफलं समर्पयामि |
दक्षिणा -
ॐ हिरण्य गर्भ गर्भस्थं हेमबीज विभावसोः |
अनन्त पुण्य फलद मतः शान्तिं प्रयच्छ मे ||
द्रव्यदक्षिणां समर्पयामि |
आरती -
ॐ कदली गर्भ संभूतं कर्पूरं तु प्रदीपितम् |
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ||
आरार्तिकं समर्पयामि |
पुष्पाञ्जलि -
ॐ नाना सुगन्धि पुष्पाणि यथा कालोद्भवानि च |
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ||
पुष्पाञ्जलिं समर्पयामि |
प्रदक्षिणा -
ॐ यानि कानि च पापानि जन्मान्तर कृतानि च |
तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ||
प्रदक्षिणां समर्पयामि |
इति षोडशोपचारैः
सम्पूज्य प्रार्थयेत् -
ॐ गौरी पद्मा शची मेधा सावित्री विजया जया |
देवसेना स्वधा स्वाहा मातरो लोकमातरः ||
धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता |
गणेशेनाधिका ह्येता वृद्धौ पूज्याश्च षोडश ||
अनया पूजया सगणेशगौर्यादि कुलदेवतान्त षोडशमातरः
प्रीयन्तां न मम |