अथ सांकल्पिक विधिना नान्दीश्राद्ध प्रयोगः
प्रश्न - नान्दी श्राद्ध क्यों करते हैं ?
उत्तर - नान्दी श्राद्ध पितरों की प्रसन्नता और कुल की वृद्धि के लिए किया जाता हैं
एवं पूजन, यज्ञ व विवाह आदि में नान्दी श्राद्ध करने के बाद
कर्मकर्ता को जनन-मरण का सूतक मान्य नहीं होता हैं | विष्णुपुराण
का वचन हैं -
ॐ व्रत-यज्ञ-विवाहेषु
श्राद्धे होमेऽर्चने जपे |
प्रारब्धे सूतके न
स्यादनारब्धे तु सूतकम् ||
ॐ पितृभ्यः स्वधायिभ्यः स्वधा नमः | पितामहेभ्यः स्वधायिभ्यः
स्वधा नमः | प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः | अक्षन्पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः पितरः शुन्धध्वम् ||
ॐ पितृभ्यो नमः, आवाहयामि पूजयामि |
पाद प्रक्षालनम् -
1. ॐ सत्यवसुसंज्ञकाः विश्वेदेवाः नान्दीमुखाः भूर्भुवः स्वः इदं वः पाद्यं
पादावनेजनं पाद प्रक्षालनम् वृद्धिः ||
2. ॐ मातृपितामही-प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः इदं वः पाद्यं
पादावनेजनं पाद प्रक्षालनम् वृद्धिः ||
3. ॐ पितृ-पितामह-प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः इदं वः पाद्यं
पादावनेजनं पाद प्रक्षालनम् वृद्धिः ||
4. ॐ मातामह-प्रमातामह-वृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भुवः स्वः
इदं वः पाद्यं पादावनेजनं पाद प्रक्षालनम् वृद्धिः ||
आसानदानम् -
1. ॐ सत्यवसुसंज्ञकाः विश्वेदेवाः नान्दीमुखाः भूर्भुवः स्वः इमे आसने वो नमो
नमः नान्दीश्राद्धे क्षणौ क्रियेतां यथा प्राप्नुवन्तो भवन्तः तथा प्राप्नुवामः ||
2. ॐ मातृपितामही-प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः इमे आसने वो नमो
नमः नान्दीश्राद्धे क्षणौ क्रियेतां यथा प्राप्नुवन्तो भवन्त्यः तथा प्राप्नुवामः ||
3. ॐ पितृ-पितामह-प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः इमे आसने वो नमो नमः
नान्दीश्राद्धे क्षणौ क्रियेतां यथा प्राप्नुवन्तो भवन्तः तथा प्राप्नुवामः ||
4. ॐ मातामह-प्रमातामह-वृद्धप्रमातामहाः सपत्निकाः नान्दीमुखाः भूर्भुवः स्वः
इमे आसने वो नमो नमः नान्दीश्राद्धे क्षणौ क्रियेतां यथा प्राप्नुवन्तो भवन्तः तथा
प्राप्नुवामः ||
गन्धादिदानम् -
1. ॐ सत्यवसुसंज्ञकाः विश्वेदेवाः नान्दीमुखाः भूर्भुवः स्वः इदं
गन्धाद्यर्चनं स्वाहा सम्पद्यतां वृद्धिः ||
2. ॐ मातृपितामही - प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः इदं
गन्धाद्यर्चनं स्वाहा सम्पद्यतां वृद्धिः ||
3. ॐ पितृ - पितामह - प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः इदं
गन्धाद्यर्चनं स्वाहा सम्पद्यतां वृद्धिः ||
4. ॐ मातामह - प्रमातामह - वृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भुवः
स्वः इदं गन्धाद्यर्चनं स्वाहा सम्पद्यतां वृद्धिः ||
भोजन निष्क्रयद्रव्य दानम् -
1. ॐ सत्यवसुसंज्ञकाः विश्वेदेवाः नान्दीमुखाः भूर्भुवः स्वः इदं
युग्मब्राह्मण भोजनपर्याप्ताऽऽमान्न निष्क्रय भूतं द्रव्यम् अमृतरूपेण स्वाहा
सम्पद्यतां वृद्धिः ||
2. ॐ मातृपितामही - प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः इदं
युग्मब्राह्मण भोजनपर्याप्ताऽऽमान्न निष्क्रय भूतं द्रव्यम् अमृतरूपेण स्वाहा
सम्पद्यतां वृद्धिः ||
3. ॐ पितृ - पितामह - प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः इदं
युग्मब्राह्मण भोजनपर्याप्ताऽऽमान्न निष्क्रय भूतं द्रव्यम् अमृतरूपेण स्वाहा
सम्पद्यतां वृद्धिः ||
4. ॐ मातामह - प्रमातामह - वृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भुवः
स्वः इदं युग्मब्राह्मण भोजनपर्याप्ताऽऽमान्न निष्क्रय भूतं द्रव्यम् अमृतरूपेण
स्वाहा सम्पद्यतां वृद्धिः ||
सक्षीर यवमुदकदानम् - दूध, जव
एवं जल मिलकर अर्पण करें |
1. ॐ सत्यवसुसंज्ञकाः विश्वेदेवाः नान्दीमुखाः प्रीयन्ताम् |
2. ॐ मातृपितामही - प्रपितामह्यः नान्दीमुख्यः प्रीयन्ताम् |
3. ॐ पितृ - पितामह - प्रपितामहाः नान्दीमुखाः प्रीयन्ताम् |
4. ॐ मातामह - प्रमातामह - वृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखाः
प्रीयन्ताम् |
जलाऽक्षतपुष्पप्रदानम् - चतुर्थस्थानेषु - ॐ
शिवा आपः सन्तु इति जलम् | सौमनस्यमस्तु इति पुष्पम् | अक्षतं
चाऽरिष्टं चास्तु इत्यक्षतान् |
जलधारादानम् - पितरों के लिये अंगूठे की और से या
पूर्वाग्र जलधारा अर्पण करें |
अघोराः पितरः सन्तु | सन्त्वघोरा पितरः | इति पूर्वाग्रां जलधारां दद्यात् |
आशीर्ग्रहणम् - ॐ गोत्रं नो वर्धताम् | वर्धतां
वो गोत्रम् | दातारो नोऽभिवर्द्धन्ताम् | अभिवर्द्धन्तां वो दातारः | वेदाश्च
नोऽभिवर्द्धन्ताम् | अभिवर्द्धन्तां वो वेदाः | सन्ततिर्नोऽभिवर्द्धनताम् | अभिवर्द्धन्तां वः
सन्ततिः | श्रद्धा च मा व्यगमत् | माव्यगमद्वःश्रद्धा
| बहुदेयं च नोऽस्तु | अस्तु वो
बहुदेयम् | अन्न च नो बहु भवेत् | भवतु
वो बह्वन्नम् | अतिथीन्श्च लभेमहि | अतिथीन्श्च
लभध्वम् | याचितारश्च नः सन्तु | सन्तु
वो याचितारः मा च याचिष्म कश्चन | एषा सत्याः आशिषः सन्तु |
सन्त्वेताः सत्याः आशिषः |
दक्षिणादानम् -
1. ॐ सत्यवसुसंज्ञकाः विश्वेदेवाः नान्दीमुखाः भूर्भुवः
स्वः कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठा सिद्ध्यर्थं द्राक्षाऽऽमलक-यवमूल
निष्क्रयणीं दक्षिणां दातुमहमुत्सृजे |
2. ॐ मातृपितामही - प्रपितामह्यः नान्दीमुख्यः भूर्भुवः स्वः कृतस्य
नान्दीश्राद्धस्य फलप्रतिष्ठा सिद्ध्यर्थं द्राक्षाऽऽमलक-यवमूल निष्क्रयणीं
दक्षिणां दातुमहमुत्सृजे |
3. ॐ पितृ - पितामह - प्रपितामहाः नान्दीमुखाः भूर्भुवः स्वः कृतस्य
नान्दीश्राद्धस्य फलप्रतिष्ठा सिद्ध्यर्थं द्राक्षाऽऽमलक-यवमूल निष्क्रयणीं
दक्षिणां दातुमहमुत्सृजे |
4. ॐ
मातामह - प्रमातामह - वृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखाः भूर्भुवः स्वः
कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठा सिद्ध्यर्थं द्राक्षाऽऽमलक-यवमूल निष्क्रयणीं
दक्षिणां दातुमहमुत्सृजे |
ॐ उपास्मै गायता नरः पवमानायेन्दवे | अभिदेवाँ२इयक्षते |
ॐ इडामग्ने पुरुद गुं स गुं सनि गोः शश्वत्तम गुं हव मानाय साध |
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भू त्त्वस्मे ||
नान्दीश्राद्धं संपन्नम् | सुसम्पन्नम् |
श्रीकर्मांगदेवताः प्रीयन्तां वृद्धिः | ॐ विश्वेदेवाः
प्रियन्ताम् |
विसर्जनम् - ॐ वाजेवाजे वत वाजिनो नो धनुष विप्रा ऽअमृताऽऋतज्ञाः | अस्य
मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ||
ॐ आ मा वाजस्य प्रसवो जगम्यादेमे द्यावा पृथिवी विश्वरूपे | आ मा
गन्तां पितरा मातरा चा मा सोमोऽअमृतत्त्वेन गम्यात् ||
हस्ते जलमादाय - मयाऽऽचरितेऽऽस्मिन्सांकल्पिक विधिना
नान्दीश्राद्धे न्यूनातिरिक्तो यो विधिः स उपविष्टब्राह्मणानां
वचनाच्छ्रीनान्दीमुख प्रसादाच्च सर्वः परिपूर्णोऽस्तु | अस्तु
परिपूर्णः |
| अनेन
सांकल्पिक विधिना नान्दीश्राद्धेन नान्दीमुखाः पितरः प्रीयन्ताम् |
देव ब्राह्मण वन्दनाद् गुरुवचः संपादनात् प्रत्यहं
साधूनामभिभाषणात्
श्रुतिशिरः श्रेयः कथाकर्णनात् |
होमादध्वर दर्शनात्
शुचिमनो भावात् जपात् दानतो
नो कुर्वन्ति कदाचिदेव
पुरुषस्यैव ग्रहाः पीडनम् ||